ए आर् गोपाल अय्यङ्गार
(कालः – १९०९) एषः ए. आर्. गोपाल अय्यङ्गारः (A. R. Gopal Iyengar) भारतस्य प्रतिभावान् जीवविज्ञानी । अस्य पूर्णं नाम् ए रामस्वामी अय्यङ्गार गोपाल अय्यङ्गारः इति । एषः ए. आर्. गोपाल् अय्यङ्गारः १९०९ तमे वर्षे भारतदेशस्य कर्णाटकराज्यस्य 'आनेकल्लु’ नामके प्रदेशे जन्म प्राप्नोत् । एषः देशविदेशेषु विभिन्नेषु विभागेषु संशोधकरूपेण, प्राध्यापकरूपेण, शासनाधिकारिरूपेण च कार्यम् अकरोत् । भारतस्य बेङ्गळूरु-केन्द्रीय–महाविद्यालये (Bangalore Central College) १९३३ तः ३८ पर्यन्तं सस्यशास्त्रविभागे प्राध्यापकः आसीत् । अनन्तरं १९३८ तः ३९ पर्यन्तम् एकवर्षं यावत् केनडादेशस्य टोराण्टोनगरे "विन्सेण्ट्म्यासो फेलो” आसीत् । तदनन्तरं १९३९ तः १९४१ पर्यन्तं तत्रैव संशोधन–फेलो आसीत् । एषः ए. आर्. गोपाल अय्यङ्गारः १९४१ तमे वर्षे "डाक्टरेट्” पदवीं प्राप्नोत् । तस्मिन् एव विश्वविद्यालये १९४१ तः १९४५ पर्यन्तं प्राध्यापकरूपेण, संशोधकरूपेण च कार्यम् अकरोत् । एषः ए. आर्. गोपाल् अय्यङ्गारः १९४५ तः १९४७ पर्यन्तं सैण्ट्-लूयीस्-नगरे चर्म तथा अर्बुदरोगस्य वैद्यालये संशोधनम् अकरोत् । अनन्तरं १९४७ तः १९५१ पर्यन्तं भारतदेशस्य मुम्बईनगरे विद्यमाने ताता–मेमोरियल्–वैद्यालये मुख्यसंशोधनजीवकोशतज्ञरूपेण आसीत् । तदनन्तरं लण्डन्–नगरे स्थिते चेस्टर्बियाटि–संशोधनकेन्द्रे, रायल्–क्यान्सर्–वैद्यालये, स्वीडन्–देशस्य स्टाक्–होमस्य जीवकोशसंशोधनविभागे, केलोरिस्क्–संस्थायां वंशशास्त्रविभागे च किञ्चित् कालं यावत् कार्यम् अकरोत् । अनन्तरं भारतदेशस्य मुम्बईनगरे विद्यमानस्य परमाणुशक्तिविभागस्य जीवशास्त्रविभागे १९५३ तः १९५५ पर्यन्तं सहनिदेशकः आसीत् । १९६० तः १९६२ पर्यन्तं तत्रैव उपमुख्यविज्ञानाधिकारी, जीवशास्त्रं तथा वैद्यकीयविभागयोः मुख्यविज्ञानाधिकारी अपि आसीत् । अनन्तरं १९६२ तः १९६७ पर्यन्तं ट्राम्बेपरमाणुशक्तिसंस्थायाः जीवशास्त्रविभागस्य निदेशकः आसीत् । अनन्तरं १९७६ पर्यन्तं पश्चिमजर्मनिदेशे हानोवर्–विश्वविद्यालयस्य बयोफिसिक्स्–विभागे प्राध्यापकरूपेण कार्यम् अकरोत् । जीवकोशशास्त्रस्य मूलं तथा औचित्यं, जीवकोश-वंशशास्त्रं, जीवकोश–रसायनशास्त्रम्, अर्बुद–संशोधनं, विकिरणजीवशास्त्रं, मनुष्येषु विकिरणानां प्रभावः इत्यादिषु विषयेषु अनेन ए. आर्. गोपाल अय्यङ्गारेण लिखिताः ६० अपेक्षया अधिकाः विद्वत्पूर्णाः लेखाः अन्ताराष्ट्रियस्तरे अपि प्रख्याताः सन्ति । एषः ए. आर्. गोपाल अय्यङ्गारः १९४१ तमे वर्षे टोराण्टोविश्वविद्यालयतः "एलिजबेत् अन्वागर् कोर्बिन्”–पुरस्कारं प्राप्नोत् । १९४८ तमे वर्षे "हेच्. जे. बाबा”–पुरस्कारं, १९६७ तमे वर्षे "पद्मश्रीः”–पुरस्कारं, १९६८–७१ तमे वर्षे बाबापरमाणुसंशोधनकेन्द्रतः "प्रतिभान्वित"–पुरस्कारं, १९७० तमे वर्षे मैसूरु–विश्वविद्यालयतः "गौरव डि. एस्सि”, १९७२ तमे वर्षे टोराण्टोविश्वविद्यालयतः "गौरव डि. एस्सि” च प्राप्तवान् आसीत् ।
"" Information related to ए आर् गोपाल अय्यङ्गार |
Portal di Ensiklopedia Dunia